Podcast Episodes
Back to Search
नन्दीश्वरः
Episode 270
आसीत् कश्चन शिलादनामा धर्मात्मा मुनिः यः अयोनिजस्य मरणरहितस्य पुत्रस्य प्राप्त्यर्थं तपः तेपे । प्रसन्नः महादेवः प्रकटीभूय 'वरं वृणीष्व' इति अकथयत् ।…
1 year, 3 months ago
पातिव्रत्यप्रभावः
Episode 269
प्रतिष्ठानपुरे सुदती पतिव्रतपरा स्वं कुष्ठरोगपीडितं पतिं कौशिकं श्रद्धया असेवत । एकदा तं स्कन्धे आरोप्य रात्रौ अनयत् । तदा प्रमादवशात् राजभटाः माण्डव…
1 year, 3 months ago
गुरुतरं कार्यम्
Episode 268
राजसूययज्ञे श्रीकृष्णः समागतः । सर्वे पाण्डवाः तस्य स्वागते संलग्नाः सञ्जाताः । श्रीकृष्णः युधिष्ठिरम् अकथयत् 'मया किं कार्यं करणीयम्?’ इति । युधिष्ठ…
1 year, 3 months ago
देवसृष्टिः
Episode 267
कदाचित् काचित् काकमाता शुकस्य इव मम रूपैश्वर्यं नास्ति इति हीनभावनया सर्वदा खिद्यते स्म । अथ कदाचित् पञ्चवर्णशुकः आगत्य वृक्षशाखायाम् उपविष्टवान् । त…
1 year, 3 months ago
पश्य मे रूपाणि ....
Episode 266
महाभारते विद्यते अयं श्लोकः - 'न देवा दण्डमादाय रक्षन्ति पशुपालवत् । यं तु रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ।। ' कथायाम् अस्यां श्रीपतिः नाम …
1 year, 3 months ago
प्रकृतिं यान्ति भूतानि
Episode 265
कदाचित् अकबर-बीरबलयोः संवादसमये बीरबलः अवदत् यत् मार्जारस्य शिक्षणं कष्टम् इति । किन्तु अकबरः प्रयत्नेन सर्वं साधयितुं शक्यं इति विचिन्त्य षड् मासान्…
1 year, 3 months ago
न नीयते सूची अपि
Episode 264
लाहोरनगरे पूर्वं दुलीचन्दः नाम कोट्यधिपतिः धनिकः निवसति स्म । कदाचित् दर्शनार्थं आगतवन्तं दुलीचन्दं दृष्ट्वा गुरुनानकः अवगतवान् यत् एतस्य धनमदः अधिकः…
1 year, 3 months ago
नीलमाधवः
Episode 263
भारतस्य पूर्वतटे 'जगन्नाथपुरी' नाम महत् पवित्रं क्षेत्रमस्ति इति तु वयं जानीमः एव । राजा इन्द्रद्युम्नः एव तस्य मन्दिरस्य निर्माणं कृतवान् । जगन्नाथ…
1 year, 3 months ago
जनप्रीतिः
Episode 262
कश्चन अविवेकी, उद्धतः, कोपशीलः, विलासी च राजा प्रजाभ्यः अधिकं करं स्वीकरोति स्म । अथ कदाचित् सञ्चरन्तौ राजपुत्रौ अश्वाभ्याम् पतितवन्तौ । राजपुत्रौ इत…
1 year, 3 months ago
अत्याज्या जन्मभूमिः
Episode 261
पुरा कौशिकीनद्याः जलौघकारणात् बहवः ग्रामाः जनशून्याः जाताः । कस्यचन वृद्धकृषकस्य कुटुम्बजनाः अपि कष्टम् अनुभूतवन्तः । ग्रामम् अपि त्यक्तुम् इच्छन्ति…
1 year, 3 months ago