Podcast Episodes

Back to Search
अज्ञानं दुःखकारकम्

अज्ञानं दुःखकारकम्


Episode 113


कस्मिंश्चित् वने कश्चित् तक्षकः वृक्षान् कर्तयित्वा, तान् ज्वालयित्वा, कृष्णाङ्गारान् निर्माय विक्रयणं करोति स्म । गच्छता कालेन वनं समाप्तं गतम् । तक्षकः नृपेण मिलित्वा स्वसमस्यां यदा निवेदितवान् तदा…


Published on 10 months, 1 week ago

चिन्तनमात्रात् न हानिः

चिन्तनमात्रात् न हानिः


Episode 112


कश्चन शिष्यः गुरुं पृच्छति यत् - सर्वदा निषिद्धानां एव वस्तूनां स्मरणं भवति । किं करणीयम् इति ? तदा गुरुः वदति -  'निषिद्धविषायाणां चिन्तनमात्रेण न कापि हानिः भवति । किन्तु पुनः पुनः‌ स्मरणात् तेषु प…


Published on 10 months, 1 week ago

विचिन्त्य वक्तव्यम्

विचिन्त्य वक्तव्यम्


Episode 111


वचनानि कागदखण्डाः इव एव भवन्ति । एकस्य मुखात् निर्गताः‌ ते अन्येषां मुखानि कथं प्राप्नुवन्ति इत्यस्य अवगमनमेव दुष्करम् । अत एव यस्य विषयस्य पूर्णज्ञानं अस्माकं न स्यात् तस्य विषये असमीचीनं वचनं कदापि…


Published on 10 months, 1 week ago

योगी वृद्धः च

योगी वृद्धः च


Episode 110


पूर्वं कश्चन योगी अष्ट अपि सिद्धीः प्राप्य अद्भुतकार्याणि प्रदर्शयन् जनेषु महत् आश्चर्यं जनयति स्म । कदाचित् सः 'तिरुवल्लिक्केणी'  प्रदेशम् आगत्य मार्गे भूमौ खननं कृत्वा सस्यस्य मूलभागम् उपरि कृत्वा …


Published on 10 months, 1 week ago

आत्मसाक्षात्काराय अर्हता

आत्मसाक्षात्काराय अर्हता


Episode 109


आत्मसाक्षात्काराय अपि काचित् अर्हता अपेक्षते इति इयं कथा दर्शयति । कश्चन साधकः आत्मसाक्षात्कारं प्राप्तुम् इच्छन् कञ्चन माहात्मानं मार्गदर्शनं प्रार्थयते । महात्मा प्रतिवर्षं तं परीक्ष्य पुनः जपकरणार…


Published on 10 months, 1 week ago

अहो गतिः कष्टदेयम् !

अहो गतिः कष्टदेयम् !


Episode 108


कश्चन कथाकारवृत्तिं कुर्वाणः पिता यदा दिवं गतः तदा तस्य अल्पविद्याः चत्वारः पुत्राः अनाश्रयाः जाताः । कदाचित् राज्ञा तेषां कथाश्रावणाय व्यवस्था कल्पिता । जनानां, राज्ञः, राज्ञ्याः च दर्शनात् तेषां चत…


Published on 10 months, 1 week ago

अनुल्लङ्घयाः न्यायनियमाः

अनुल्लङ्घयाः न्यायनियमाः


Episode 107


कदाचित् कश्चन युवराजः स्वसहचरं बन्धनात् विमोक्तुं न्यायाधीशं प्रति सानुरोधेन आज्ञास्वरेण च अवदत् । वादप्रतिवादानाम् अनन्तरं न्यायालये अविनयस्य प्रदर्शनार्थं, न्यायालयकार्ये विघ्नकरणार्थं, औद्धत्यस्य …


Published on 10 months, 2 weeks ago

मैत्र्याः सीमा

मैत्र्याः सीमा


Episode 106


पक्षिभाषाभिज्ञः राजा देवदत्तः राजकुमारेण सह स्वभवनस्य वाटिकायां निवसत्या चटकया सह सम्भाषणं करोति स्म । कदाचित् चटका यदा आहारार्थं गता आसीत् तदा राजकुमारस्य मनसि दुर्विचारः उत्पन्नः, येन सः चटकशावकं म…


Published on 10 months, 2 weeks ago

भवेत् को मुक्तिदायकः ?

भवेत् को मुक्तिदायकः ?


Episode 105


बहुभ्यः वर्षेभ्यः कश्चन पण्डितः उपदेशकथादिकं प्रतिदिनं घण्टां यावत् राज्ञे श्रावयति स्म । तथापि राज्ञः कोपशीलतादयः न अपगताः, मनस्संयमः वा न प्राप्तः । चिन्ताक्रान्तः पण्डितः कञ्चन साधुमहाराजं दृष्ट्व…


Published on 10 months, 2 weeks ago

नक्षत्रेषु दृष्टिः

नक्षत्रेषु दृष्टिः


Episode 104


षोडशे शतके इटलीदेशे कश्चन बालकः दिवं गतां मातरं दर्शयतु इति पितामहीं पीडयति स्म । कदाचित् पितामही गृहाङ्गणं प्रति आनीय 'आकाशस्थेषु असङ्ख्येषु नक्षत्रेषु अन्यतमत्वम् आप्तवती अस्ति तव माता । त्वमेव अभि…


Published on 10 months, 2 weeks ago





If you like Podbriefly.com, please consider donating to support the ongoing development.

Donate