Episode Details

Back to Episodes
बृहस्पतेः चातुर्यम्

बृहस्पतेः चातुर्यम्

Episode 721 Published 2 days, 4 hours ago
Description

महाराजः नरसिंहः विद्वान् रसिकश्च आसीत् । प्रतिदिनं तस्य आस्थानं प्रति बहवः याचकाः आगत्य स्वकौशलप्रदर्शनं कृत्वा महाराजात् पारितोषिकं प्राप्नुवन्ति स्म । कदाचित् कश्चित् याचकः राजसभाम् आगतः । सः न पण्डितः, न वा कलाकोविदः । धनार्थी आसीत् । सः ज्यौतिषकः इति उक्त्वा महाराजस्य पुरतः उपस्थितः अभवत् । यदा महाराजः नक्षत्राणां नामानि वदतु इति अवदत् तदा केवलं चत्वारि नामानि अवदत् याचकः, तदपि क्रमेण न। आस्थाने स्थितः चतुरः दीनवत्सलः च पण्डितः बृहस्पति: कमपि उपायं कृत्वा याचकाय पारितोषिकं दापितवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

King Narasimha was learned and fond of the arts. Every day, many petitioners came to his court, displayed their talents, and received rewards. One day, a petitioner arrived who was neither a scholar nor an artist—he was simply in need of money. Claiming to be an astrologer, he presented himself before the king. When asked to name the stars, he could mention only four, and not even in order. Then Brihaspati, the wise and compassionate scholar in the court, devised a way so that the petitioner too received a reward.

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us