Episode Details

Back to Episodes
जीवन्तु शत्रुगणाः

जीवन्तु शत्रुगणाः

Episode 718 Published 5 days, 5 hours ago
Description

कदाचित् कश्चन छात्रः कक्ष्यायां निद्रां कुर्वन् आसीत् । शिक्षकः यद्यपि तत् न लक्षितवान् तथापि पार्श्वस्थः छात्रः उत्थाय 'एषः निद्रां कुर्वन् अस्ति' इति शिक्षकम् अवदत् । तदा कुपितः शिक्षकः निद्रां कुर्वन्तं छात्रम् उत्थाप्य तस्य कपोले चपेटिकां दत्तवान् । कुपितः दण्डितः छात्रः अन्यं छात्रम् उद्दिश्य प्रतिकारं साधयितुम् ऐच्छत् । कक्ष्यायाः अनन्तरं तयोः मध्ये कलहः जातः । तदा कश्चन शिक्षकः आगत्य दण्डितं छात्रम् उपदिशति । ततः आरभ्यः तौ प्रियस्नेहितौ जातौ ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A student was once sleeping in class. Though the teacher hadn't noticed, another student pointed it out. The teacher became angry, woke the boy, and slapped him. Upset and humiliated, the punished student wanted revenge on the classmate who had reported him. After class, the two got into a fight. A teacher intervened, counselled the punished student, and from that day onward, the two became close friends.

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us