Episode Details

Back to Episodes
गोसेवा

गोसेवा

Episode 707 Published 2 weeks, 2 days ago
Description

अनादिकालात् अपि भारते गौः पूज्यते स्म । तस्य सेवा रक्षणं च आद्यं कर्तव्यम् इति जनाः मन्यन्ते स्म । अत्रापि प्रजारक्षकः परमोदारः च महाराजः विक्रमादित्यः काञ्चन गावं रक्षति । कदाचित् सः एकाकी अश्वारोही सन् सन्ध्याकाले यदा अरण्यमार्गे गच्छन् आसीत् तदा दूरात् कस्याश्चित् गोः आक्रन्दनं श्रुतवान् । वर्षाकालः इत्यतः कस्मिंश्चित् गर्ते काचन गोः पतिता आसीत् । सिंहः अपि तत्र आयाति । सः स्वप्राणान् पणीकृत्य प्रातःकालपर्यन्तं गोरक्षणे एव मग्नः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

From ancient times, the cow has been revered in India, and protecting it has been considered a sacred duty. This story tells how the noble King Vikramaditya risked his own life to save a cow. One evening, while riding alone through a forest, he heard the desperate cries of a cow trapped in a deep pit. As a lion approached, the king stood guard through the entire night, protecting the helpless animal until dawn.

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us