Episode Details
Back to Episodes
यथा त्वं तथा अहम्
Description
रत्नपुरनामके ग्रामे काचन वृद्धा वसति स्म । सा अतीव चतुरा बुद्धिमती च । तस्याः चत्वारः पुत्राः एका पुत्री च । पुत्री ज्येष्ठा, पुत्राः कनिष्ठाः च । पुत्र्याः विवाहः जातः । तस्याः पतिः स्वभावेन विनोदशीलः । सर्वदा श्वशुरालयगमनसमये सः शिशुभ्यः मिष्टान्नं नयति स्म किन्तु कदाचित् सः इक्षून् नीतवान् । कुतूहलेन यदा वृद्धा जामातरम् अपृच्छत् तदा तस्य वाक्चातुर्यं दृष्ट्वा सर्वे परिवारजनाः तूष्णीम् अभवन् । तदनन्तरं वृद्धा अपि स्वस्य चातुर्यं दर्शयति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
An elderly woman lived in the village of Ratnapura with her four sons and a married daughter. Her son-in-law was cheerful and witty. Whenever he visited, he brought sweets for the children, but one day he brought sugarcane instead. Curious, the old woman questioned him. His clever reply left the entire family speechless. The old woman then displayed her own wit, making for an entertaining exchange.