Episode Details

Back to Episodes
न त्यक्तव्यः अभ्यासः

न त्यक्तव्यः अभ्यासः

Episode 694 Published 4 weeks, 1 day ago
Description

कस्मिंश्चित् ग्रामे वर्षत्रयं वृष्टिः न भविष्यति इति ज्ञात्वा ग्रामवासिनः जीवनार्थं यत्र कुत्रापि गतवन्तः । किन्तु एकः कृषकः तत्रैव स्थित्वा स्वशुष्कक्षेत्रस्य कर्षणं करोति स्म । एकदा आकाशे सञ्चरन् एकः मेघः तं कृषकं दृष्ट्वा आश्चर्येण अपृच्छत् 'किमर्थम् अत्रैव स्थितवान् भवान् ?' इति । तदा कृषकः अवदत् 'कृषिकार्यं विस्मृतं भवति यदि अहम् अन्यत्र गच्छामि । क्षेत्रकर्षणस्य अभ्यासः एव नष्टः भवेत्' इति । तत् श्रुत्वा मेघः 'यदि अहं वर्षत्रयं न वर्षामि, अहमपि वर्षणं विस्मरामि' इत्युक्त्वा अन्यान् मेघान् आहूय वर्षणम् अकरोत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
When the people of a village learned that there would be no rain for three years, they left in search of a livelihood. But one farmer stayed back and continued ploughing his dry field. One day, a passing cloud asked him why he was still farming. The farmer replied, "If I stop, I may forget how to farm". Hearing this, the cloud thought, "If I don't rain for three years, I too may forget how to rain". It then called the other clouds, and together they brought rain.

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us