Episode Details

Back to Episodes
सैनिकेषु उत्साहवर्धनाय

सैनिकेषु उत्साहवर्धनाय

Episode 680 Published 1 month, 1 week ago
Description

सेतुं निर्माय समुद्रम् अतिक्रम्य वानरैः सह लङ्कासमीपे श्रीरामः उपस्थितः यत् तस्मात् नितरां चिन्ताक्रान्तः आसीत् रावणः । कथम् एतत् सम्भवम् इति पृष्टे मन्त्री अवदत् 'वानराः शिलानाम् उपरि रामनाम लिखित्वा ताः शिलाः समुद्रे अक्षिपन्  । रामनामबलात् ताः प्लवमानाः जाताः' इति । सन्धिप्रस्तावः एव वरम् इत्यपि अवदत् मन्त्री । कथञ्चित् सैनिकेषु आत्मविश्वासः पूरणीयः इति विचिन्त्य सः एकं तन्त्रम् आश्रितवान् । किं तत् तन्त्रं, तेन सैनिकेषु उत्साहः प्रवृद्धः वा इति सर्वम् इमां स्वारस्यकारीं कथां श्रुत्वा जानीयाम ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

When Rama reached Lanka with his army after crossing the sea, Ravana became worried. A minister explained that the monkeys had made stones float by writing Rama’s name on them and advised Ravana to seek peace. Instead, Ravana used a clever trick to boost his soldiers’ confidence. This story tells what that trick was and whether it succeeded.

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us