Episode Details
Back to Episodes
स्पर्शमणितः अपि श्रेष्ठम्
Description
कश्चन स्वाभिमानी शास्त्रज्ञः च ब्राह्मणः गर्वं प्रदर्शयतः धनिकान् दृष्ट्वा 'मया अपि प्रभूतं सुवर्णं सम्पादनीयम्' इति विचिन्त्य द्वादशवर्षाणि कठोरं तपः आचरितवान् शिवं तोषययितुम् । शिवः सन्तुष्टः भूत्वा तस्य स्वप्ने प्रत्यक्षीभूय 'वरः याच्यताम्' इति अवदत् । 'स्पर्शमणिं प्राप्तुम् इच्छामि' इति अवदत् ब्राह्मणः । क्षणं विचिन्त्य शिवः 'तस्य प्राप्त्यर्थं वृन्दावने यमुनातीरे वसन्तं सनातनगोस्वामिमुनिम् उपसर्प्य पृच्छतु । सः दास्यति' इति अवदत् । तत्र गत्वा ब्राह्मणेन स्पर्शमणितः अपि श्रेष्ठं वस्तु अस्ति इति ज्ञातम् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A proud and learned Brahmin wanted to become wealthy after seeing rich people showing off their riches. To please Lord Shiva, he performed severe penance for twelve years. Pleased with him, Shiva appeared in his dream and asked him to choose a boon. The Brahmin asked for the philosopher’s stone (a magical stone that turns iron into gold). Shiva told him to meet the sage Sanatana Goswami, who lived on the banks of the Yamuna in Vrindavan. When the Brahmin met the sage, he learned that there was something far more valuable than the philosopher’s stone.