Episode Details
Back to Episodes
किं भगवन्निन्दया ?
Description
शाकविक्रयिकस्य रामस्य शकटः मार्गे स्थिते कर्दमे समाश्लिष्टः अभवत् । साहाय्यार्थं न कोऽपि दृष्टः । भगवन्निन्दां कुर्वन् आसीत् । यदा भगवान् प्रत्यक्षः अभवत् तदा सः रामम् अवदत् 'त्वं स्वप्रयासं कृतवान् किम् ? प्रयत्नं कुरु' इति । 'कष्टसमये आदौ स्वप्रयासः करणीयः । आत्मनः प्रयासं विना ईश्वरनिन्दया किं प्रयोजनम् ?’ इति विचिन्त्य रामः भगवन्तं क्षमां सम्प्रार्थ्य स्वस्कन्धेन शकटम् उत्थापयितुं पूर्णबलं प्रयुक्तवान् । अल्पेन एव प्रयत्नेन शकटः कर्दमात् बहिः आगतः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Rama, a vegetable seller, once had his cart stuck in mud on the road. No one came to help, and he began blaming God. When the Lord appeared, He asked Rama, “Have you made any effort yourself? Try!” Thinking, “In times of trouble, one must first make one’s own effort; blaming God without effort is useless,” Rama prayed for forgiveness and then used all his strength to lift the cart with his shoulder. With only a little effort, the cart came out of the mud.