Episode Details

Back to Episodes
कः आरोग्यसम्पन्नः ?

कः आरोग्यसम्पन्नः ?

Episode 584 Published 1 month, 2 weeks ago
Description

वाग्भटः विख्यातः प्राचीनः वैद्यराजः । एकदा धन्वन्तरिः पृथ्वीतले वैद्यानां परीक्षा करणीया इति विचिन्त्य शुकस्य रूपं धृत्वा एकं प्रश्नं त्रिवारम् उच्चार्य वैद्यान् अपृच्छत् - 'कोऽरुक्? कोऽरुक्? कोऽरुक्?’ (कः आरोग्यसम्पन्नः भवति इत्यर्थः)। वैद्याः विविधानि उत्तराणि दत्तवन्तः किन्तु धन्वन्तरिः न सन्तुष्टः । यदा वाग्भटं प्रति आगत्य प्रश्नं अपृच्छत् तदा सः उत्तरयति 'हितभुक्, मितभुक्, उष्णभुक्' इति । तस्य आशयः आहारः हितकारः मितरूपः उष्णः च भवेत् । वाग्भटस्य उत्तरेण धन्वन्तरिः सन्तुष्टः जातः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Vagbhata was a renowned ancient physician. Once, Dhanvantari decided to test the physicians of the earth. Disguised as a parrot, he asked three times, “Ko’ruk? Ko’ruk? Ko’ruk?” (meaning, “Who is truly healthy?”). The physicians gave various answers, but none satisfied him. When he asked Vagbhata, the reply was: “One who eats wholesome food, moderate food, and warm food.” By this he meant that diet should be beneficial, taken in moderation, and warm. Dhanvantari was pleased with this answer.

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us