Episode Details
Back to Episodes
सत्यनिष्ठा सुहृत्प्रीतिः च
Description
कदाचित् अन्यस्मिन् देशे कश्चन वणिक् लघुनः अपराधस्य निमित्तं कारागारे स्थापितः आसीत् । तस्य शूलारोपम् आदिष्टवान् राजा । सः वणिक् राज्ञे निवेदितवान् यत् गृहं गत्वा यद्यत् करणीयं स्यात् तत्सर्वं निर्वर्त्य वर्षाभ्यन्तरे प्रत्यागमिष्यामि इति । तस्य स्थाने तस्य मित्रं कारागारे स्थापितः आसीत् । वर्षम् अतीतम् । तस्य मित्रस्य शूलारोपस्य समयः आगतः । तावता धावन् तत्र आगतः सः वणिक् । बहुविधान् विघ्नान् अपाकृत्य मित्रस्य मरणदण्डनात् पूर्वम् आगतस्य वणिजः असाधारणीं सत्यनिष्ठां सुहृत्प्रीतिं च दृष्ट्वा राजा वणिजः दण्डनम् अपाकृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In another land, a merchant was imprisoned for a minor offense. The king ordered him to be executed by impalement. The merchant pleaded to return home, settle his affairs, and come back within a year. In his place, his friend was kept in prison. A year passed, and the time for the friend’s execution arrived. Just then, the merchant rushed back, having overcome many obstacles, and reached before his friend’s punishment was carried out. Witnessing such extraordinary loyalty and truthfulness, the king canceled the merchant’s sentence.