Episode Details
Back to Episodes
धूर्तः आपणिकः
Description
लालबहादुरशास्त्री भारतस्य सुप्रसिद्धः द्वितीयः प्रधानमन्त्री । तस्य पत्नी ललितादेवी अपि स्वातन्त्र्यान्दोलने भागग्रहीत्री एव । सा महिला दलस्य प्रमुखा आसीत् । कदाचित् सा आपणिकानां मनः परिवर्तयितुम् अन्याभिः महिलाभिः साकं वैदेशिकवस्तुविक्रयणस्थलं गतवती । बहवः आपणिकाः ललितादेव्याः अनुरोधं स्वीकृत्य सर्वाणि वैदेशिकवस्तूनि बहिः अक्षिपन् । किन्तु एकः आपणिकः तत् न अङ्गीकृतवाम् । तस्य मनःपरिवर्तनं कथं भवति इति कथायाः वस्तु वर्तते ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In Jodhpur, Lal Bahadur Shastri’s wife, Lalita Devi, was herself active in the freedom struggle and led a women’s group. Once, she and other women went to a marketplace to persuade shopkeepers to stop selling foreign goods. Many shopkeepers agreed and threw out their foreign items. But one shopkeeper resisted. The story centers on how his mind was eventually changed.