Episode Details

Back to Episodes
मानवीयता

मानवीयता

Episode 562 Published 2 weeks, 6 days ago
Description

कदाचित् जम्मूकश्मीरस्य चक्रवर्ती प्रतापसिंहः प्रजानां सुखदुःखानि स्वयं ज्ञातुम् इच्छन् वेषान्तरं धृत्वा देशपर्यटनम् आरब्धवान् । एकदा सः ज्वरेण पीडितस्य युवकस्य सेवां कृत्वा, युवकस्य गम्यस्थानं प्रति अपि प्रापयति । तस्य श्वश्रूः लक्ष्मीमेहता या प्रतापसिंहस्य प्रासादे कर्मकरी आसीत्, महाराजेन साकम् अश्वम् आरुह्य आगतं‌ जामातरं दृष्ट्वा भीता सती 'जामात्रा कृतः अपराधः क्षन्तव्यः । भवान् अस्य देशस्य राजा इति सः न अभिज्ञातवान्' इति अवदत् । तदा राजा अवदत् 'सर्वादौ अहम् अस्मि मानवः । तदनन्तरमेव महाराजत्वं मम । माहाराजेन यथा प्रजाः पाल्येरन् तथैव प्रजाः सेव्येरन् अपि' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Maharaja Pratap Singh of Jammu and Kashmir wished to know the joys and sorrows of his people directly, so he traveled in disguise. Once, he served a young man suffering from fever and even escorted him to his destination. The young man’s mother-in-law, Lakshmi Mehta, who worked in the royal palace, was frightened when she saw her son-in-law arriving on horseback with the king. She pleaded, “Please forgive him; he did not know you are the ruler of this land.” The king replied, “First of all, I am a human being. Only afterwards am I a Maharaja. Just as a king must protect his subjects, he must also serve them.”

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us