Episode Details
Back to Episodes
गुणवत्तां वर्धयत
Description
कस्मिंश्चित् ग्रामे सर्वे कृषिकाः कृष्या सह गोपालनमपि कुर्वन्ति स्म । तेषु केचन विष्णुपूजकाः, केचन शिवपूजकाः, अपरे केचन आञ्जनेयभक्ताः, अपरे केचन शक्तिपूजकाः च । स्वस्य स्वस्य आराध्यदेवस्य एव श्रेष्ठता इति सर्वेषां चिन्तनम् । कदाचित् ग्रामम् आगतवन्तं कञ्चन संन्यासिनं पञ्चषाः प्रमुखाः मतश्रेष्ठताविषये अपृच्छन् । तदा तेभ्यः प्रश्नोत्तरं कृत्वा संन्यासी अवदत् 'अस्माकं पूजापद्धतयः आराध्यदेवाः च विभिन्नाः स्युः । तथापि आराध्यं तत् परमतत्त्वम् एकमेव । वयं कीदृशाः इति निर्णयति भगवान् अस्मज्जीवनस्य गुणवत्ताम् अनुलक्ष्य । अतः गुणवत्ताप्राप्तौ विशेषावधानं भवेत् अस्माकम्' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In a certain village, all farmers also tended cattle. Among them, some worshipped Vishnu, some Shiva, others Hanuman, and still others Shakti. Each believed their own deity to be supreme. One day, when a wandering monk visited the village, five leaders asked him which faith was the greatest. The monk replied: “Our rituals and chosen deities may differ, but the ultimate reality we worship is one. God judges us not by whom we worship, but by the quality of our lives. Therefore, we must focus on cultivating virtues and goodness”.