Episode Details

Back to Episodes
भगवान् न क्रूरः

भगवान् न क्रूरः

Episode 495 Published 1 month ago
Description

चीनादेशे स्थिता काचित् भारतीया बालिका जपान्देशस्य युद्धभीत्या भारतं प्रत्यागता । तस्य माता नितान्तं भक्तिमती आसीत् इत्यतः सा मातरम् उक्तवती 'युद्धसङ्कटात् रक्षितुं जपानदेशे महान् भूकम्पः भवेत् इति भगवन्तं प्रार्थयताम्' इति । आश्चर्यान्विता माता अवदत् 'कस्यचन प्रार्थनां श्रुत्वा कामपि आपदं सृष्ट्वा असङ्ख्यानां निर्दुष्टजनानां मारणार्थं तत्परः भवितुं किम् ईश्वरः तावान् क्रूरः भवेत् ? एतत् न योग्यं‌ । सर्वेषां हितम् एव कामयतां पुत्रि !’ इति । मातुः हृदयवैशाल्यं अवगत्य पुत्री लज्जिता अभवत् । स्वीयं चिन्तनं स्वार्थपरम् इति अवगत्य जपानं प्रति घृणाभावं त्यक्तवती सा नूतनं विवेकं प्राप्य मातरं क्षमाम् अयाचत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

An Indian girl living in China returned to India out of fear of war with Japan. Since her mother was deeply devoted, the girl said: “Pray to God that a great earthquake may strike Japan to save us from war”. Surprised, the mother replied: “Would God, hearing someone’s prayer, create a disaster to kill countless innocent people? God is not so cruel. One should always wish for the welfare of all, my child”. Realizing the vastness of her mother’s heart, the girl felt ashamed. She understood that her own thought was selfish, gave up her hatred toward Japan, gained new wisdom, and asked her mother’s forgiveness.

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us