Episode Details

Back to Episodes
परिशुद्धतायाः फलम्

परिशुद्धतायाः फलम्

Episode 486 Published 1 month, 1 week ago
Description

कस्मिंश्चित् संशोधनकेन्द्रे अन्तिमचक्रस्य संदर्शने सि.वि.रामन्वर्यः षण्णाम् अभ्यर्थिनां सन्दर्शनं कृत्वा तेषु त्रीन् चितवान् । तेभ्यः षड्भ्यः अपि यातायातव्ययं दातुं तत्सम्बद्धम् अधिकारिणम् असूचयत् सः । तेषु एकः युवकः यः सन्दर्शने न चितः सः रामन्-वर्यम् उपसर्प्य 'यः यातायतव्ययः प्रदत्तः, तत्र दोषेण सप्त रूप्यकाणि अधिकानि दत्तानि' इति अवदत् । रामन्-वर्यः सप्त रूप्यकाणि स्वीकृत्य अग्रिमरदिने मेलितुम् अवदत् । अनन्तरदिने यदा सः युवकः अगच्छत् तदा रामन्-वर्यः तस्य निमित्तम् एकं पदं सृष्टवान् । यद्यपि सः‌ भौतशास्त्रस्य परीक्षायाम् अधिकाङ्कान् न प्राप्तवान् तथापि परिशुद्धतापरीक्षायां सफलः अभवत् इति कारणतः । सः एव भाविनि काले विश्वस्तरे ख्यातः वैज्ञानिकः समभवत् । तस्य नाम 'सुब्रह्मण्यं चन्द्रशेखरः' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

At a research centre’s final round of interviews, Sir C. V. Raman selected three out of six candidates. He informed the authorities to provide travel allowance to all six. One young man, who was not selected, approached Raman and said, “By mistake, seven rupees extra were given in the allowance.” Raman accepted the money and asked him to come the next day. When the youth came, Raman created a position for him, saying that although he had not scored highest in physics, he had passed the test of integrity. That young man later became a world-renowned scientist—Subrahmanyan Chandrasekhar.

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us