Episode Details
Back to Episodes
प्रसादात्तु प्रसन्नता
Description
कस्यचन धनिकस्य गृहे विवाहप्रसङ्गे कश्चन लघुः बालकः रोदिति स्म । रोदनं कुर्वतः बालस्कय कर्मकरी माता पात्राणि प्रक्षालन्ती आसीत् । केचन आगत्य तस्य समाधानं कर्तुं प्रायतन्त । किन्तु तस्य बालकस्य रोदनं न समाप्तम् । तदनन्तरं तस्य माता आगत्य पुत्रम् उन्नीय तस्य केशेषु हस्तं प्रसार्य 'हुलुलुलु' इति उक्तवती येन सः शीघ्रमेव प्रसन्नः जातः । तदा तत्र स्तिथः कश्चन यदा 'हुलुलुलु' इत्यस्य अर्थम् अपृच्छत् तदा तया उक्तम् ''हुलुलुलु' इत्यस्य अर्थं ज्ञातुम् इष्यते चेत् भवान् मम पुत्रो भूत्वा आगच्छेत् । मातुः शब्दप्रसादेन एव शिशोः प्रसन्नता भवति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
During a wedding in a wealthy man’s house, a small child began to cry. His mother, a servant busy washing dishes, could not attend to him at once. Others tried to comfort the child, but his crying did not stop. Later, the mother came, lifted her son, gently ran her hand through his hair, and said “hulululu.” Immediately, the child became cheerful. Someone present asked her the meaning of “hulululu”. She replied: “If you wish to know its meaning, you must become my son. A mother’s soothing words alone bring joy to her child”.