Episode Details
Back to Episodes
सत्यं चैव परं वदेत्
Description
कदाचित् राजसभायां मरणदण्डं प्राप्तवता बन्धिना राजा अवाच्यशब्दैः निन्दितः । तस्य वचनानि अनवगच्छन् राजा पार्श्वस्थान् अपृच्छत् 'किं वदन्नस्ति सः?’ इति । कश्चन चतुरः मन्त्री अवदत् 'स्वस्य आक्रोशम् असमाधनञ्च निगृह्य अन्येषां दोषं यः क्षामयति स एव श्रेष्ठः' इति । राज्ञि करुणा उत्पन्ना । मरणदण्डनम् अपाकृतवान् च । अपरः मन्त्री अवदत् 'राज्ञः सन्निधौ असत्यं न वक्तव्यम् । सः बन्धी अवाच्यैः शब्दैः अनिन्दत्' इति । तदा राजा अवदत् 'भवता उक्तस्य सत्यस्य अपेक्षया तेन उक्तम् असत्यमेव श्रेष्ठम् । यतः तेन उक्तम् असत्यं मानवहितोद्देशेन' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, in a royal court, a prisoner condemned to death insulted the king with abusive words. The king could not understand them and asked his ministers what the prisoner had said. One wise minister replied: “He who restrains his own anger and forgives the faults of others is truly great.” Hearing this, compassion arose in the king’s heart, and he canceled the death sentence. Another minister then said: “One must not speak falsehood before the king. The prisoner indeed used abusive words”. The king responded: “The false words spoken by my minister are better than the truth, for they were spoken with the intention of human welfare”.