Episode Details

Back to Episodes
ज्ञानेन नम्रभावः

ज्ञानेन नम्रभावः

Episode 414 Published 2 months ago
Description

कदाचित् इन्द्रः अन्येषाम् अपेक्षया मया सहस्राधिकानि पुस्तकानि पठितानि इति गर्वितः जातः । तद्दिनादारभ्य सः कमपि न परिगणयति स्म । इन्द्रस्य गर्वं दूरीकर्तुं भगवान् नारायणः नारदं स्वर्गलोकं प्रति प्रेषितवान् । नारदमहर्षेः स्वागतं कृतम् इन्द्रेण । तयोः सम्भाषणावसरे तालग्रन्थानां राशिः उद्भूतः तत्र । 'किमिदम्?’ इति इन्द्रेण पृष्टे नारदः अवदत् 'एतानि भवता पठितानि पुस्तकानि' इति । ततः क्षणाभ्यन्तरे मेरुपर्वतः इव तेषां पुस्तकानां राशेः औन्नत्यं वर्धितम् । तदा नारदः अवदत् 'एतानि सर्वाणि भवता अपठितानि पुस्तकानि । ज्ञानम् अनन्तम् अपारञ्च  । भवता पठितानि पुस्तकानि नगण्यानि' इति । तत् श्रुत्वा इन्द्रस्य गर्वः अपगतः । इन्द्रः नारदस्य पादयोः च पतित्वा क्षमाम् अयाचत ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Indra grew proud, boasting that he had read thousands of books. To remove his pride, Lord Narayana sent Narada to heaven. During their talk, a pile of manuscripts appeared—Narada said these were the books Indra had read. Soon, the pile grew like Mount Meru, and Narada explained it represented the countless books Indra had not read, for knowledge is infinite. Realizing his pride was meaningless, Indra bowed to Narada and sought forgiveness.

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us