Episode Details

Back to Episodes
वृक्षस्य अङ्गानां श्रेष्ठता

वृक्षस्य अङ्गानां श्रेष्ठता

Episode 390 Published 3 months ago
Description

कस्याञ्चित् कक्ष्यायां कश्चन अध्यापकः छात्रान् अपृच्छत् 'वृक्षस्य एकैकः भागः अपि भवति महते प्रयोजनाय । भवत्सु कः कीदृशः वृक्षभागः भवितुम् इच्छति ?’ इति । तदा एकैकः छात्रः‌ अपि तस्य इच्छानुगुणं कीदृशः भागः भवितुम् इच्छति इति । तस्य भागस्य प्रयोजनं किम् इत्यपि वदति । कश्चन पर्णं, कश्चन पुष्पं, कश्चन फलं, कश्चन शाखा भवितुम् इच्छामि इति वदति । कक्ष्यायां कश्चन अन्धः छात्रः वृक्षस्य मूलं भवितुम् इच्छामि इति वदति । मूलं भूमिं विदार्य प्रसरति, वृक्षधारणं करोति च । तत् सर्वान् विघ्नान् सम्मुखीकृत्य जीवत् वृक्षस्य दृढः आधारः भवति इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

In a certain classroom, a teacher once asked the students, “Every part of a tree serves a great purpose. Which part of the tree would you like to be?” Each student responded according to their wish—one wanted to be a leaf, another a flower, another a fruit, and yet another a branch. They also explained the usefulness of the part they chose. Among them, a blind student said he wished to be the root of the tree. He explained that the root penetrates the earth, supports the tree, and faces all obstacles underground to provide a strong foundation for the tree’s life. His thoughtful answer moved everyone, showing that true strength often lies unseen, beneath the surface.

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us