Episode Details

Back to Episodes
जठरे धराम्यहम्

जठरे धराम्यहम्

Episode 280 Published 6 months, 3 weeks ago
Description

कदाचित् यमुनानद्याः अन्यत् तीरं‌ गन्तुम् इष्टवान् महामुनिः व्यासः बुभुक्षां निवारयितुं तत्रत्याः गोपीः नवनीतं दुग्धं च अपृच्छत् । खादनानन्तरं व्यासदेवः करौ संयोज्य 'हे यमुने! यदि अहं अद्य किमपि न खादितवान्, तर्हि भवती नदीजलस्य विभागद्वयं करोतु येन वयं सुखेन अन्यत् तीरं गन्तुं शक्नुयाम' इति प्रार्थयते । यदा यमुना भागद्वयेन विभक्ता जाता तदा गोपीनां महत् आश्चर्यं सञ्जातम् । तदनन्तरं व्यासः अवदत् 'मनुष्यः यं कर्म करोति तत् ब्रह्मार्पणबुद्ध्या न करोति । तदा कर्मणः बन्धः न भवति .......’ इति । एतत् श्रुत्वा गोप्यः विस्मिताः अभवन् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, Sage Vyasa wished to cross the Yamuna River. To satisfy his hunger, he asked the local cowherd women for butter and milk, which they offered him. After eating, he folded his hands and prayed, “O Yamuna! If I have not eaten anything today, then divide your waters so we may cross with ease”. Miraculously, the river split into two, leaving the cowherd women in astonishment. Vyasa then explained, “When one dedicates all actions to the Divine, they are freed from bondage”. Hearing this, the women were left in awe.

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us