Podcast Episode Details

Back to Podcast Episodes
देवसृष्टिः

देवसृष्टिः


Episode 267


कदाचित् काचित् काकमाता शुकस्य इव मम रूपैश्वर्यं नास्ति इति हीनभावनया सर्वदा खिद्यते स्म । अथ कदाचित् पञ्चवर्णशुकः आगत्य वृक्षशाखायाम् उपविष्टवान् । तं दृष्ट्वा एतादृशं सौन्दर्यं मम नास्ति इति काकमाता चिन्तयन्ती आसीत् तावता कुतश्चित् आगतः कश्चन बाणः शुकस्य कण्ठे लग्नः । एतत् दृष्ट्वा काकमाता भीतवती । चिन्तयति च 'देवस्य सृष्टिः व्यवस्थिता वर्तते । अव्यवस्थितं तु अस्माकं मनः एव' इति । एतेन सत्यज्ञानेन काकमाता हीनभावनां विमुच्य आनन्देन शावकैः सह अजीवत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

Once, a mother crow was constantly troubled by feelings of inferiority, believing she lacked the beauty of a parrot. One day, a vibrant five-colored parrot perched on a tree branch nearby. Seeing its dazzling appearance, the mother crow felt even more disheartened. Suddenly, an arrow struck the parrot’s neck. Witnessing this, the mother crow was terrified and realized a profound truth: ‘The divine creation is well-ordered, it is only our minds that remain unsettled’. With this newfound wisdom, she let go of her complex and lived happily with her young ones.


Published on 5 months ago






If you like Podbriefly.com, please consider donating to support the ongoing development.

Donate