Podcast Episode Details

Back to Podcast Episodes
यद्यदाचरति श्रेष्ठः.....

यद्यदाचरति श्रेष्ठः.....


Episode 245


कश्चन वृद्धः प्रतिदिनं प्रवचनं श्रोतुं गृहस्य समीपस्थम् आश्रमं गच्छति स्म । गच्छता कालेन तस्य श्रवणशक्तिः न्यूना जाता चेदपि सः प्रवचनं श्रोतुं गच्छति स्म । एकदा प्रवचनकारेण कारणे पृष्टे वृद्धः वदति 'अहं परिवारस्य प्रमुखः अस्मि । अहम् अत्र आगच्छामि इति ज्ञात्वा मम परिवारजनाः अपि आगच्छन्ति । तेन तेषां हृदये भगवतः विषये श्रद्धा जीविता तिष्ठति । अतः श्रोतुम् अशक्तः अपि अहम् अत्र आगच्छामि' इति । प्रवचनकारः 'यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः' इति गीतायाः वाक्यं स्मृतवान् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

An elderly man would go to a nearby ashram every day to listen to discourses. Over time, his hearing ability declined, yet he continued attending the discourses. One day, the speaker asked him the reason for his persistence. The old man replied, "I am the head of my family. Seeing me come here, my family members also follow. This keeps their faith in God alive in their hearts. Hence, even though I am unable to hear, I still come." The speaker was reminded of the verse from the Bhagavad Gita: "Whatever a great person does, others follow in their footsteps."


Published on 5 months, 3 weeks ago






If you like Podbriefly.com, please consider donating to support the ongoing development.

Donate