Podcast Episode Details

Back to Podcast Episodes
समानवृत्तिकौ आवां भ्रातरौ

समानवृत्तिकौ आवां भ्रातरौ


Episode 191


ईश्वरचन्द्रविद्यासागरः महाविद्वान् परमदयालुः आसीत् । कदाचित् महाविद्यालयस्य पार्श्वे शयानः कश्चित् कर्मकरः ज्वरेन पीडितः आसीत् ।  तं गृहं नीत्वा वैद्यम् आनाय्य तस्य शरीरस्य मार्जनं, वस्त्रपरिवर्तनम् इत्यादिकं च ईश्वरचन्द्रविद्यासागरेण स्वयमेव कृतम् । एतादृशं व्यवहारं दृष्ट्वा यदा कश्चित् बन्धुः अपृच्छत् - 'किं एषः भवतः बन्धुः ?’ तदा विद्यासागरः वदति - ‘आम्, एषः मम बन्धुः। मया ज्ञानसाहाय्येन अन्तरङ्गस्य स्वच्छता क्रियते । एषः सम्मार्जन्यादिना बाह्यस्वच्छतां करोति । अतः आवां समानवृत्तिकौ । अतः एषः मम भ्राता' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Ishwar Chandra Vidyasagar was a great scholar and very compassionate. One day, near the college, a worker was lying down suffering from fever. Vidyasagar took him home, called a doctor, cleaned his body, changed his clothes, and did everything himself. When a relative saw this and asked, ‘Is he your relative?’. Vidyasagar replied, ‘Yes, he is my relative. I purify the inner self with knowledge and he cleans the outer body with sweeping. Therefore, we both have the same role. Hence, he is my brother’.


Published on 7 months, 3 weeks ago






If you like Podbriefly.com, please consider donating to support the ongoing development.

Donate