Episode Details

Back to Episodes
मन्दहासपूर्णं तत् मुखम्

मन्दहासपूर्णं तत् मुखम्

Episode 146 Published 11 months ago
Description

कञ्चित् ग्रामम् आगतवते भगवते बुद्धाय तत्रत्याः जनाः सर्वविधां व्यवस्थां कल्पितवन्तः । तत्र कश्चित्  जयः नाम बालः सर्वं महता कुतूहलेन अपश्यत् ।  बुद्धस्य मदहासपूर्णं मुखं बालस्य मनः अहरत् । बुद्धस्य उपदेशः निरन्तरं प्रवृतः । प्रस्थानोद्यताय बुद्धाय जनाः किमपि उपायनं यथाशक्ति समर्पयन्तः आसन् । सः बालः किमपि दातुम् अशक्नुवन् अञ्जलिमितां मृत्तिकां गृहीत्वा बुद्धम् अर्पितवान् ।  बालेन उपायनीकृतां मृत्तिकां स्पृष्ट्वा तं बालम् आशिषा अनुगृहीतवान् । सः एव बालः जयः अग्रिम जन्मनि 'अशोक' नाम्ना ख्यातः । कलिङ्गयुद्धानन्तरं युद्धात् जुगुप्सितः सन् बुद्धस्य तत्त्वानां प्रसाराय आत्मानं समर्पितवान् सः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
When Lord Buddha visited a certain village, the villagers made all kinds of arrangements for him. Among them, a boy named Jaya observed everything with great curiosity. The serene and joyful face of Buddha captivated the boy's mind. Buddha's teachings continued uninterrupted. When Buddha was about to depart, the villagers offered him gifts as per their abilities. The boy, unable to offer anything else, took a handful of soil and presented it to Buddha. Touching the soil offered by the boy, Buddha blessed him. That same boy, Jaya, in his next birth became known as Ashoka. After the Kalinga War, disgusted with war, he dedicated himself to spreading Buddha's teachings.

Listen Now

Love PodBriefly?

If you like Podbriefly.com, please consider donating to support the ongoing development.

Support Us