Podcast Episode Details

Back to Podcast Episodes
अनुल्लङ्घयाः न्यायनियमाः

अनुल्लङ्घयाः न्यायनियमाः


Episode 107


कदाचित् कश्चन युवराजः स्वसहचरं बन्धनात् विमोक्तुं न्यायाधीशं प्रति सानुरोधेन आज्ञास्वरेण च अवदत् । वादप्रतिवादानाम् अनन्तरं न्यायालये अविनयस्य प्रदर्शनार्थं, न्यायालयकार्ये विघ्नकरणार्थं, औद्धत्यस्य प्रदर्शनार्थं च दिनात्मकेन कारागारवासेन युवराजः दण्डितः न्यायपीठेन । तदा राजा - 'यस्मिन् राज्ये निर्भीकाः न्यायैकपक्षपातिनः भवेयुः तस्मिन् राज्ये प्रजाः सुखेन तिष्ठन्ति इत्यत्र सन्देहः एव नास्ति । न्यायनियमानाम् उल्लङ्घनं केनापि कर्तुं न शक्यते'  इति अवदत् ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, a young prince ordered the judge to release his companion from imprisonment. After several arguments in the court, the prince was punished by the court with a one-day imprisonment for showing disrespect, disrupting the proceedings, and displaying arrogance. The king then said, 'In a kingdom where fearless and impartial judges exist, the people live in happiness. No one can violate the laws of justice'.


Published on 10 months, 2 weeks ago






If you like Podbriefly.com, please consider donating to support the ongoing development.

Donate